॥ श्रीः ॥
1.221. अध्यायः 221
Mahabharata - Adi Parva - Chapter Topics
दुर्योधनं प्रति कर्णोनोक्तं श्रुतवतो धृतराष्ट्रस्य भीष्मादिभिः सह मन्त्रणम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
कर्ण उवाच। 1-221-0x(1221)(9630)
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः।
न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन॥ 1-221-1(9631)
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया।
निग्रहीतुं तदा वीर न चैव शकितास्त्वया॥ 1-221-2(9632)
इहैव वर्तमानास्ते समीपे तव पार्थिव।
अजातपक्षाः शिशवः शकिता नैव बाधितुम्॥ 1-221-3(9633)
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते।
नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता॥ 1-221-4(9634)
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च।
शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्॥ 1-221-5(9635)
परस्परेण भेदश्च नाधातुं तेषु शक्यते।
एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्॥ 1-221-6(9636)
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः।
परिद्यूनान्वृतवती किमुताद्य मृजावतः॥ 1-221-7(9637)
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता।
तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा॥ 1-221-8(9638)
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः।
न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्॥ 1-221-9(9639)
तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान्।
तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन॥ 1-221-10(9640)
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ।
यावन्न कृतमूलास्ते पाण्डवेया विशांपते॥ 1-221-11(9641)
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम्।
अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः।
तावत्प्रहरणं तेषां क्रियतां मा विचारय॥ 1-221-12(9642)
वाहनानि प्रभूतानि मित्राणि च कुलानि च।
यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव॥ 1-221-13(9643)
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः।
सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव॥ 1-221-14(9644)
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्।
राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति॥ 1-221-15(9645)
वसूनि विविधान्भोगान्राज्यमेव च केवलम्।
नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन॥ 1-221-16(9646)
विक्रमेण मही प्राप्ता भरतेन महात्मना।
विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः॥ 1-221-17(9647)
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते।
स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ॥ 1-221-18(9648)
ते बलेन वयं राजन्महता चतुरङ्गिणा।
प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्॥ 1-221-19(9649)
न हि साम्ना न दानेन न भदेन च पाण्डवाः।
शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि॥ 1-221-20(9650)
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्।
अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप॥ 1-221-21(9651)
वैशम्पायन उवाच। 1-221-22x(1222)
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्।
अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्॥ 1-221-22(9652)
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने।
त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्॥ 1-221-23(9653)
भूय एव तु भीष्मश्च द्रोणो विदुर एव च।
युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया॥ 1-221-24(9654)
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः।
धृतराष्ट्रो महाराज मन्त्रयामास वै तदा॥ ॥ 1-221-25(9655)